Friday, January 28, 2011

कामाख्या स्तुति चतुर्थः पटलः Kamakhya Stuti : Part 3, Kamakhya Mantra

कामाख्या - मन्त्रः 
वर - मन्त्रं प्रवक्ष्यामि सादरं श्रृणु पार्वति !
यस्य प्रसाद - मात्रेण ब्रह्म - विष्णु - शिवा अपि ॥१॥
इन्द्राद्याः देवताः सर्वा भवन्ति कामना - युताः ।
गन्धर्वाः किन्नरा देवि ! तथा विद्याधरादयः ॥२॥
यत् - प्रसादं समागत्य स्वकीय - विषयान्विताः ।
योगिनी डाकिनी विद्या भैरवी नायिकाऽऽदिकाः ॥३॥
कामाख्या - मन्त्रमासाद्य भजन्ति योग्यतां पराम् ।
स्वर्गे मर्त्ये च पाताले ये ये सिद्धयन्ति साधकाः ॥४॥
निज - बीज - त्रयं देवी ! क्रोध - द्वयमतः परम् ।
वधू - बीज - त्रयं चैव कामाख्ये च पुनर्वदेत् ॥५॥
प्रसीदेति पदं चैव पूर्व - बीजानि कल्पयेत् ।
ठ - द्वयान्ते मनुः प्रोक्तः सर्व - तन्त्रेषु दुर्लभः ॥६॥
प्रणवाद्या महादेवी ! त्रैलोक्ये चाति - दुर्लभा ।
चतुर्वर्गप्रदा साक्षान्महापातकनाशिनी ॥७॥
स्मरणादेव मन्त्रस्य सर्वे विघ्नाः समाकुलाः ।
नश्यन्ति दहने दीप्ते पतङ्गा इव पार्वति ! ॥८॥
मन्त्र ग्रहण मात्रेण जीवन्मुक्तो भवेन्नरः ।
भुक्ति मुक्ती करे तस्य सर्वेषां प्रियतां व्रजेत् ॥९॥
आवृणोति स्वयं लक्ष्मीर्वदने गीः सदा वसेत् ।
पुत्राः पौत्राः प्रपौत्राश्च भवन्ति चिर - जीविनः ॥१०॥
पृथिव्यां सर्वपीठेषु कामाख्यादिषु शङ्किरी !
लिपिश्चलति तस्यैव नात्र कार्या विचारणा ॥११॥
तस्य नाम च संस्मृत्य प्रणमन्ति सदा जनाः ।
नाम श्रुत्वा वारमेकं पलायन्ते च हिंस्रकाः ॥१२॥
यावत्यः सिद्धयः सन्ति मर्त्ये रसातले ।
साधकानां परिचर्यां कुर्वन्ति नात्र संशयः ॥१३॥
तं दृष्ट्वा साधकेन्द्रं च वादी स्खलति दर्शनात् ।
सभायां कोटिसूर्याभं पश्यन्ति सर्वसज्जनाः ॥१४॥
जिह्वा - कोटि - सहस्रैस्तु वक्त - कोटि - शतैरति ।
वर्णितुं नैव शक्नोमि मन्त्रमेतन्महेश्वरि ! ॥१५॥
न्यास - पूजादिकं सर्व पूर्वक्तं वरानने ।
पुरश्चर्याविधौ किन्तु षटसहस्रं मनुं जपेत् ॥१६॥
यथाविधि षटशतानि होमार्दीश्च समाचरेत् ।
सिद्धो भवति मन्त्रज्ञः प्रयोगेषु ततः क्षमः ॥१७॥
ध्यानं श्रृणु महादेव्या धन - धान्य - सुत - प्रदम् ।
दारिद्र्य - हननं देवी ! क्षणेनैव न चान्यथा ॥१८॥
कामाख्याः ध्यानम्
( कामाख्या देवी का ध्यान )
अति - सुललित - वेशां हास्य - वक्त्रां त्रिनेत्राम्,
जित - जलद - सुकान्तिं पट्ट - वस्त्र - प्रकाशाम् ।
अभय - वर - कराढ्यां रत्न - भूषति - भव्याम्,
सुर - तरु - तल - पीठे रत्न - सिंहासनस्थाम् ॥१९॥
हरि - हर - विधि - वन्द्यां बुद्धि - वृद्धि - स्वरुपाम् 
मदन - शर - समाक्तां कामिनीं काम - दात्रीम् ।
निखिल - जन विलासोल्लास रुपां भवानीम्
कलि - कलुष - निहन्त्रीं योनि - रुपां भजामि ॥२०॥
गुह्याद् - गुह्यतरं देवी ! ध्यानं दारिद्र्य - नाशकम् ।
गोपितं सर्व - तन्त्रेषु तव भावात् प्रकाशितम् ॥२१॥
साधना - पद्धतिः ( साधना की पद्धतिं )
स्वयम्भू - कुसुमेनैव तिलकं परिकल्य च ।
तूलिकायां महादेवी ! कुल - शक्ति समाविशेत् ॥२२॥
कर्पूरित - मुखः स्वादु साधकश्चुम्बयन्मुदा ।
तस्याधरो यथा भृङ्गों नीरज - व्याकुलः प्रिये ! ॥२३॥
दन्त - क्षति - वितानां च परमं तत्र कारयेत् ।
आलिङ्गयेन्मदोन्मतः सुदृढं कुच - मर्दनम् ॥२४॥
नखाघातैर्नितम्बे च रमयेद् रति - पण्डितः ।
पुनः पुनश्चुम्बनं च यौनौ कुर्यात् कुलेश्वरी ! ॥२५॥
शुक्रं तु स्तम्भयेद् वीरो यौनौ लिङ्गं प्रवेशयेत् ।
आघातैस्तोषयेत् तां तु सन्धान - भेदतः प्रिये ! ॥२६॥
ततो लिङ्गे स्थिते यौनौ आज्ञां तस्याः प्रगुह्य च ।
अष्टोत्तर - शतं मन्त्रं जपेद् होमादि - कांक्षया ॥२७॥
दिन - त्रयं महा - धीरः प्रजपेद् ध्यान - तत्परः ।
प्राप्यते मानस वस्तु नात्र कार्या विचारणा ॥२८॥
ऋतु - युक्त - लतां देवी ! निवेश्य तूलिकोपरि ।
करवीर - प्रसूनं च तस्या लिङ्गोपरि न्यसेत् ॥२९॥
तद् वीक्ष्य देव - देवेशि ! जपेच्चाष्ट - सहस्रकम् ।
दिन - त्रयं ततो देव्याः प्रीतिः स्यादचला प्रिये ! ॥३०॥
धनं विन्दति तस्यैव लक्ष - संख्यं न संशयः ।
आनन्दं वर्द्धयेन्नित्यं साधकस्य महात्मनः ॥३१॥
अष्टोत्तर - शतं योनिं संचुम्ब्य पूज्य सज्जनः ।
पुनर्लिङ्गे स्थिते योनौ जपेच्चाष्ट - सहस्रकम् ॥३२॥
कांक्षा - पञ्च - गुणं वित्तं प्राप्यते सर्वदा सुखी ।
नित्यं तस्य महेशानि ! नायिका - सङ्गमो भवेत् ॥३३॥
वेश्या - लतां समानीय कुल - चक्र विधाय च ।
तस्या योनौ यजेद् देवीं हष्ट - चित्तेन साधकः ॥३४॥
भग - लिंङ्ग - समाख्यानं सु - स्वरेण समुच्चरेत् ।
योनिं वीक्ष्य जपेन्मन्त्रं सप्त - रात्रमतन्द्रितः ॥३५॥
प्रत्यहं सततं कृत्वा सोऽपि सिद्धीश्वरः कलौ ।
आज्ञां गृह्णाति धनदस्तस्य देवी ! न संशयः ॥३६॥
सदगुरोः स्मरणं कृत्वा योनेश्च साधनं यदि । 
तदा सिद्धिमवाप्नोति चान्यथा हास्यमेव हि ॥३७॥

॥ इति श्रीकामाख्या - तन्त्रे देवीश्वर - संवादे चतुर्थः पटलः ॥


कामाख्या देवी का मन्त्र
हे पार्वती ! श्रेष्ठ मन्त्र बताऊँगा, जिसके प्रसाद से ब्रह्मा, विष्णु, शिव भी और इन्द्रादि सभी देवता कामनापूर्ण होते हैं । हे देवी ! गन्धर्व, किन्नर और विद्याक्षर आदि तथा योगिनी, डाकिनी, भैरवी, नायिका आदि विद्याएँ जिसके प्रसाद से आकर अपने विषय को पूर्ण करती हैं । इस कामाख्या मन्त्र को पाकर स्वर्ग, मृत्यु - लोक और पाताल में जो - जो सिद्ध साधक हैं, वे श्रेष्ठ योग्यता को प्राप्त करते हैं । उसे आदर सहित सुनो ।
( त्रीं त्रीं त्रीं हूँ हूँ स्त्रीं स्त्रीं कामाख्ये ! प्रसीद स्त्रीं स्त्रीं हूँ हूँ त्रीं त्रीं त्रीं स्वाहा )
हे देवी ! अपने तीन बीज ( त्रीं त्रीं त्रीं ), उसके बाद दो ' क्रोध - बीज ' ( हूँ हूँ ) और तीन ' वधू - बीज ' ( स्त्रीं स्त्रीं स्त्रीं ), फिर ' कामाख्ये ' कहना चाहिए, तब ' प्रसीद ' शब्द और पूर्वोक्त बीजों की पुनः कल्पना करनी चाहिए । अन्त में दो ठ ' ( स्वाहा ) - यह सभी तन्त्रों में दुर्लभ मन्त्र कहा गया है ।
हे महादेवी ! उक्त मन्त्र के आदि में ' प्रणव ' ( ॐ ) लगाने से यह चारों वर्ग ( धर्म, अर्थ, काम, मोक्ष ) देनेवाली, महापापों को नष्ट करनेवाली साक्षात् देवी - स्वरुप बन जाता है । हे पार्वति ! इस मन्त्र का स्मरण करते ही सभी विघ्न उसी प्रकार नष्ट हो जाते हैं, जैसे अग्नि में पतंगे जलकर भस्म हो जाते हैं ।
मन्त्र लेते ही मनुष्य जीवन्मुक्त हो जाता है । भोग और मोक्ष उसके हाथ में आ जाते हैं और वह सबका प्रिय बन जाता है । स्वयं लक्ष्मी उसे वरण कर लेती हैं और सरस्वती उसके मुख में निवास करती हैं तथा उसके पुत्र, पौत्र, प्रपौत्र चिरंजीवी होते हैं ।
हे शंकरि ! पृथ्वी पर कामाख्या आदि सभी पीठों में उसी का लेख प्रचलित होता है, इसमें कोई सन्देह नहीं । उसके नाम का स्मरण कर सुयोग्य लोग प्रणाम करते हैं और उस नाम को सुनते ही हिंसक प्राणी खड़े होते हैं ।
स्वर्ग, मृत्युलोक और पाताल में जितनी सिद्धियाँ हैं, वे सभी साधकों की सेवा करती हैं, इसमें सन्देह नहीं । उस साधकेन्द्र को देखकर शास्त्रार्थ करनेवाला कुण्ठित हो जाता है और सभा में सभी सज्जन उसे करोड़ों सूर्य के समान तेजस्वी देखते हैं ।
हे महेश्वरी ! करोड़ों हजार जीभों से और करोड़ों सैकड़े मुखों से भी इस मन्त्र की महिमा का वर्णन मैं नहीं कर सकता । हे वरानने ! इसके न्यास, पूजन आदि सभी बातें पहले कही जा चुकी हैं किन्तु इसके पुरश्चरण में मन्त्र का जप छः हजार करना चाहिए । यथा विधि छः सौ होमादि करना चाहिए । इससे साधक को मन्त्र सिद्ध होता है और तब वह इसका प्रयोग करने में समर्थ होता है ।
हे देवी ! महादेवी का ध्यान सुनो, जो धन - धान्य और पुत्रदायक है तथा क्षणभर में ही दरिद्रता का नाश कर देता है, इसमें सन्देह नहीं ।
मैं योनिरुपा भवानी का भजन करता हूँ, जो कलिकाल के पापों का नाश करती हैं और समस्त लोगों को भोगविलास के उल्लास से पूर्ण कर देती हैं । वे अत्यन्त सुन्दर केशवाली, हँसमुखी हैं, त्रिनेत्रा हैं और उनकी सुन्दर कान्ति के आगे मेघों की छवि भी फीकी पड़ जाती है । रेशमी वस्त्रों से वे प्रकाशमान हैं । उनके हाथ अभय और वर मुद्राओं से युक्त हैं । रत्न - जटित आभूषणों से वे बड़ी भव्य हैं । देव - वृक्ष के नीचे पीठ रत्न - जटित सिंहासन पर वे विराजमान हैं । ब्रह्मा, विष्णु, महेश द्वारा वन्दिता वे बुद्धि वृद्धिस्वरुपा हैं । कामदेव के मनोमोहक बाण के समान वे अत्यन्त कमनीयता एवं सभी की कामनाओं को पूर्ण करनेवाली हैं ।
हे देवी ! यह ध्यान गुप्त से भी गुप्त है और दरिद्रता का नाशक है । सभी तन्त्रों में यह गुप्त है । तुम्हारे प्रेम से मैंने प्रकट किया है ।
श्लोक २२ से ३७ तक उक्त मन्त्र की साधना का वर्णन है, जो सर्वसाधारण के लिए नहीं है । जो विस्तार से जानकारी चाहें वे लेखक से सम्पर्क कर सकते हैं ।
॥ इति श्रीकामाख्या - तन्त्रे देवीश्वर - संवादे चतुर्थः पटलः ॥

कामाख्या स्तुति तृतीयः पटलः Kamakhya Stuti : Part 3

काली - तारा मन्त्र - दान - काले चक्रादि - गणना - निषेधः  
 

॥ श्रीदेव्युवाच ॥
काली - तारा - दाने चक्र - चिन्तां करोति यः ।
का गतिस्तस्य देवेश ! निस्तारो विद्यते न वा ? ॥१॥
॥ श्रीशिव उवाच ॥
वयमग्निश्च कालोऽपि ये याता महेश्वरि !
किं ब्रूमो देव - देवशि ! कालिका - तारिणी - मनुम् ॥२॥
अज्ञानाद् यदि वा मोहात् काली - तारा - मनौ प्रिये !
कृते चक्रादि - गणने शूनी - विष्ठा - कृमिर्भवेत् ॥३॥
कल्पान्ते च महादेवी ! निस्तारो विद्यते न च ।
अस्याः पूजां प्रवक्ष्यामि त्रैलोक्य - साधन - प्रदाम् क॥४॥
हठाद्धठाच्च देवेशि ! या या सिद्धिश्च जायते ।
प्राप्यते तत्क्षणेनेव नात्र कार्या विचारणा ॥५॥
सिन्दूर - मण्डलं कृत्वा त्रिकोणं च समालिखेत् ।
निज - वीजानि तन्मध्ये योजयेत् साधकोत्तमः ॥६॥
चतुरस्रं लिखेद देवी ! ततो वज्राष्टकं प्रिये !
अष्ट - दिक्षु यजेत् तां तु न्यास - जालं विधाय च ॥७॥
अक्षोभ्यश्च ऋषिः प्रोक्तश्छन्दोऽनुष्टुबुदाहतम् ।
कामाख्या देवता सर्व - सिद्ध्ये विनियोजिता ॥८॥
कराङ्ग - न्यासकं नैव निज - बीजेन कारयेत् ।
षड् - दीर्घ - भाजां ध्यायेत्तु कामाख्यामिष्ट - दायिनीम् ॥९॥
कामाख्या देवी का ध्यान
रक्त - वस्त्रां वरोद्युक्तां सिन्दूर - तिलकान्विताम् ।
निष्कलङ्कां सुधा - धाम - वदन - कमलोज्जवलाम् ॥१०॥
स्वर्णादि - मणि - माणिक्य - भूषणैर्भूषितां पराम् ।
नाना - रत्नादि - निर्माण - सिंहासनोपरि - स्थिताम् ॥११॥
हास्य - वक्त्रां पद्यराग - मणि - कान्तिमनुत्तमाम् ।
पीनोत्तुङ्ग - कुचां कृष्णां श्रुति - मूल - गतेक्षणाम् ॥१२॥
कटाक्षैश्च महा - सम्पद् - दायिनीं हर - मोहिनी ।
सर्वाङ्ग - सुन्दरी नित्यां विद्याभिः परि - वेष्टिताम् ॥१३॥
डाकिनी - योगिनी - विद्याधरीभिः परि - शोभिताम् ।
कामिनीभिर्युतां नाना - गन्धाद्यैः परि - गन्धिताम् ॥१४॥
ताम्बूलादि - कराभिश्च नायिकाभिर्विराजिताम् ।
समस्त - सिद्ध - वर्गाणां प्रणतां च प्रतीक्षणाम् ॥१५॥
त्रिनेत्रां मोहन - करीं पुष्प - चापेषु विभ्रतीम् ।
भग - लिङ्ग - समाख्यानां किन्नरभ्योऽपि नृत्यताम् ॥१६॥
वाणी लक्ष्मी सुधा वाक्य प्रतिवाक्य - समुत्सकाम् ।
अशेष - गुण - सम्पन्नां करुणासागरां शिवाम् ॥१७॥
आवाहयेत् ततो देवीमेवं ध्याचा च साधकः ।
पूजयित्वा यथोक्तेन विधानेन हरप्रिये ! ॥१८॥
कुंकुमाद्यै रक्त - पुष्पैः सुगन्धि - कुसुमैस्तथा ।
जवा - यावक - सिन्दूरैः करवीरैर्विशेषतः ॥१९॥
करवीरेषु देवेशि ! कामाख्या तिष्ठति स्वयम् ।
जवायां च तथा विद्धि मालत्यादि - समीप के ॥२०॥
करवीरस्य माहात्मयं कथितुं नैव शक्यते ।
प्रदानात्तु जवायाश्च गाणपत्यमवाप्नुयात् ॥२१॥
पूजयेदम्बिकां देवीं पञ्चतत्त्वेन सर्वदा ।
पञ्चतत्त्वं बिना पूजामभिचाराय कल्पयेत् ॥२२॥
पञ्चतत्त्वेन देव्यास्तु प्रसादो जायते क्षणात् ।
पञ्चमेन महादेवी ! शिवो भवति साधकः ॥२३॥
पञ्चतत्त्व समं नास्ति नास्ति किञ्चित् कलौ युगे ।
पञ्चतत्त्वं पर ब्रह्म पञ्चतत्त्वं परा गति ॥२४॥
पञ्चतत्त्वं महादेवी ! पञ्चतत्त्वं सदा शिवः ।
पञ्चतत्त्वं स्वयं ब्रह्मा पञ्चतत्त्वं जनार्दनः ॥२५॥
पञ्चतत्त्वं भुक्ति - मुक्तिर्महायोगः प्रकीर्तितः ।
पञ्चतत्त्वं विना नान्यत् शाक्तानां सुख - मोक्षयोः ॥२६॥
पञ्चतत्त्वेन देवेशि ! महापातक - कोट्यः ।
नश्यन्ति तत्क्षणेनैव तूल - राशिमिवानलः ॥२७॥
यत्रैव पञ्चतत्त्वानि तत्र देवी वसेद् ध्रुवम् ।
पञ्चतत्त्व विहीने तु विमुखी जगदम्बिका ॥२८॥
मद्येन मोदते स्वर्गे मांसेन मानवाधिपः ।
मत्स्येन भैरवी - पुत्रो मुद्रया साधतां व्रजेत् ॥२९॥
परेण च महादेवी ! सायुज्यं लभते नरः ।
भक्ति - युक्तो यजेद् देवीं तदा सर्वं प्रजायते ॥३०॥
स्वयम्भू - कुसुमैः पुष्पैः कुंड - गोलोदभवैः शुभैः ।
कुंकुमाद्यैरासवेन चार्घ्य देव्यै निवेदयेत् ॥३१॥
नानोपहार - नैवेद्यैरन्नादि - पायसैरपि ।
वस्त्र - भूषादिभिर्देवि ! प्रपूज्यावरणं यजेत् ॥३२॥
इन्द्रादीन् पूजयेत् तत्र तेषां यन्त्राणि शङ्करि !
पार्श्वर्योः कमलां वाणीं पूजयेत् साधकोत्तमः ॥३३॥
अन्नदा धनदा चैव सुखदा जयदा तथा ।
रसदा मोहदा देवी ! ऋद्धिदा सिद्धिदाऽपि च ॥३४॥
वृद्धिदा शुद्धिदा चैव भुक्तिदा मुक्तिदा तथा ।
मोक्षदा सुखदा चैव ज्ञानदा कान्तिदा तथा ॥३५॥
एताः पूज्या महादेव्यः सर्वदा यन्त्र - मध्यतः ।
डाकिन्याद्यास्तथा पूज्याः सिद्ध्यो यत्नतः शिवे ! ॥३६॥
षडङ्गानि ततो देव्याः यजेत् पुष्पाञ्जलीन् क्षिपेत् ।
यथाशक्ति जपेन्मन्त्रं शुद्धभावेन साधकः ॥३७॥
जप समर्प्य वाद्यद्यैस्तोषयेत् पर - देवताम् ।
पठेत् स्तोत्रं च कवचं प्रणमेद् विधिनाऽमुना ॥३८॥
ततश्च हदये देवी संयुज्य शेषिकां प्रति ।
निक्षिपेदैशे त्रिकोणं परिकल्पयेत् ॥३९॥
निर्माल्यं साधकैः सार्द्ध गृह्णीयाद् भक्ति - भावतः ।
विहरेत् पञ्चतत्वेन यथा विधि स्व - शक्तितः ॥४०॥
शक्तिमूलं साधनं च शक्तिमूलं जपादिकम् ।
शक्ति - मूला जपाश्चैव शक्तिमूलं च जीवनम् ॥४१॥
ऐहिकं शक्तिमूलं च पारत्रं शक्ति - मूलकम् ।
शक्तिमूलं तपः सर्वं चतुर्वर्गस्तथा प्रिये ! ॥४२॥
शक्ति - मूलानि सर्वाणि स्थवराणि चराणि च ।
अज्ञात्वा पापिनो देवी ! रौरवं यान्ति निश्चितम् ॥४३॥
तस्मात् सर्व - प्रयत्नेन साधकैश्च शिवाज्ञया ।
शक्त्युच्छिष्टं पीयते हि नान्यथा यान्ति रौरवम् ॥४४॥
शक्त्यै यद् - दीयते देवी ! तत् तु देवार्पितं भवेत् ।
सफलं कर्म तत् सर्वं सत्यं सत्यं कुलेश्वरि ! ॥४५॥
शक्ति बिना कलौ चक्रं करोति कारयेदपि ।
स याति नरकं घोरं निस्तारो नहि विद्यते ॥४६॥
एवं तु पूजयेद् देवीं यं यं चोद्दिश्य साधकः ।
तं तं कामं करे कृत्वा प्रिये ! जयति निश्चितम् ॥४७॥
पुरश्चरणकाले तु लक्षमेकं जपेत् सुधीः ।
तद् - दशांशं हुनेदाज्यैः शर्करा - मुध - पायसैः ॥४८॥
तर्पयेत् तद् - दशांशैश्च जलैश्चन्दन - मिश्रितैः ।
गन्धद्यैः साधकाधीशस्तद् - दशैरभिषेचयेत् ॥४९॥
अभिषेक - दशांशेन भोजयेच्च द्विजोत्तमान् ।
मिष्ठान्नैः साधकान् देवी ! देवी - भक्तांश्च पञ्चमैः ॥५०॥
एवं पुरस्क्रियां कृत्वा सिद्धो भवति साधकः ।
प्रयोगेषु ततो देवी ! योग्यो भवति निश्चितम् ॥५१॥
एतत् पूजादिकं सर्वं कामाख्या - प्रीति - कारकम् ।
महा - प्रीति - करी पूजा योनि - चक्रे कुलेश्वरि ! ॥५२॥
योनिपूजा महापूजा तत्समा नहि सिद्धिदा ।
तत्र देवीं यजेद् धीमान् सैव देवी न चान्यथा ॥५३॥
आवाहनादि - कर्माणि च तत्र सर्वथा प्रिये !
लेपयेत् तां तु गन्धाद्यैः पूजयेद् विविधेन च ॥५४॥
महाप्रीतिर्भवेद् देव्याः सिद्धो भवति तत्क्षणात् ।
योनि - पूजा - समा पूजा नास्ति ज्ञाने तु मामके ॥५५॥
चुम्बनाल्लेहनाद् योनेः कल्पवृक्षमतिक्रमेत् ।
दर्शनात् साधकाधीशः स्पर्शनात् सर्वमोहनः ॥५६॥
लिङ्ग - योनि - समाख्यानं कामाख्या - प्रीति - वर्द्धनम् ।
तदेव जीवनं तस्या गिरिजे ! बहुत किं वचः ॥५७॥
तस्मात् सर्वप्रयत्नेन योनि - पूजां समाचरेत् ।
परस्त्री योनिमासाद्य विशेषेण यजेत् सुधीः ॥५८॥
वेश्या - योनिः परा देवी ! साधनं तत्र कारयेत् ।
त्रिरात्रादेव सिध्यन्ति नात्र कार्या विचारणा ॥५९॥
ऋतुयुक्तं लतामध्ये साधयेत् विधि - वन्मुदा ।
अचिरात् सिद्धिमाप्नोति देवानामपि दुर्लभाम् ॥६०॥
सारात् सार - तरं देवी ! योनि - साधनमीरितम् ।
विना तत् - साधनं देवी ! महाशापः प्रजायते ॥६१॥
योनि - निन्दां घृणां देवी ! यः करोति नराधमः ।
अचिराद् रोरवं याति देवी ! सत्यं शिवाज्ञया ॥६२॥
योनि - मध्ये वसेद् देवी योगिन्यश्चिकुरे स्थिताः ।
त्रिकोणा च त्रयो देवाः शिव - विष्णु - पितामहाः ॥६३॥
तस्मान्न निन्दयेद् योनिं यदीच्छेदाम्तनो हितम् ।
योनि - निन्दां प्रकुर्वाणः स - वंशेन विनश्यति ॥६४॥
योनि - स्तुति - तरो देवी ! शिवः स्यात् तत्क्षणेन च ।
शैवानां वैष्णवानां च शाक्तानां च विशेषतः ॥६५॥
किं ब्रूमो योनि - माहात्म्यं योनि - पूजा - फलानि च,
चांचल्याद् गदितं किंचित् क्षंतव्यं काम - रुपिणि ॥६६॥

॥ इति श्रीकामाख्या - तन्त्रे देवीश्वर - सम्वदे तृतीयः पटलः ॥ 

Translation :
श्री देवी ने कहा - काली - तारा का मन्त्र देने में जो चक्र - विचार करता है, उसकी क्या दशा होती है ? उसके उद्धार का क्या कोई उपाय नहीं हैं ?
श्री शिव ने कहा - हे देव - देवेशि ! हम ( ब्रह्मा - विष्णु - शिव ) और अग्नि तथा काल भी एवं अन्य जो कुछ उत्पन्न हुआ है, वह सब महेश्वरी से ही उत्पन्न हुआ है । कालिका और तारिणी के मन्त्रों की महिमा मैं क्या बताऊँ ! हे प्रिये ! अज्ञान या मोहवश यदि कोई काली और तारा के मन्त्रसंबंध में चक्रादि गणना करता है, तो वह कुत्ते के मल में कीड़े का जन्म पाता है और हे महादेवी ! कल्प के अन्त में भी उसे मोक्ष नहीं मिलता ।
इन देवी की पूजा विधि कहूँगा, जो तीनों लोकों की सिद्धिदायिनी हैं । हे देवेशि ! हठपूर्वक घोर साधना करने से जो - जो सिद्धि मिलती है, वह सब इस पूजा से क्षण मात्र में मिल जाती है, इसमें सन्देह नहीं ।
सिन्दूर से वृत्त ( मंडल ) बनाकर त्रिकोण की रचना करें । उसके मध्य में स्वबीजों ( त्रीं त्रीं त्रीं ) को उत्तम साधक लिखें । तब चतुष्कोण बनाकर आठ वज्रों को अंकित कर न्यासों को कर आठ दिशाओं में उनकी पूजा करें ।
कामाख्या मन्त्र के ऋषि अक्षोभ्य, छन्द अनुष्टप्, देवता कामाख्या और सर्वासिद्धि के लिए विनियोग है ।
स्व - बीज ( त्रीं ) में छः दीर्घ स्वर लगाकर ( त्रां, त्रीं, त्रूं, त्रैं, त्रौं त्रः ) कराङ्गन्यासादि करे । तब अभीष्टदायिनी कामाख्या देवी का ध्यान करें ।
लाल वस्त्रधारिणी, द्विभुजा, सिन्दूरतिलक लगाए, निर्मल चन्द्रवत् उज्ज्वलं एवं कमल के समान सुन्दर मुखवाली, स्वर्णादि के बने मणिमाणिक्य - जटित आभूषणों से शोभित, विविध रत्नों से बने सिंहासन पर बैठी हुई, हँस - मुखी, पदमराग मणि जैसी आभा वाली, पीनोन्नत - पयोधरा, कृष्णवर्णा, कान तक फैले बड़े - बड़े नेत्रोंवाली, कटाक्ष मात्र से महदैश्वर्यदायिनी, शंकर - मोहिनी, सर्वांग - सुन्दरी, नित्या, विद्याओं द्वारा घिरी हुई, डाकिनी, योगिनी, विद्याधारी समूहों द्वारा शोभायमाना, सुन्दर स्त्रियों से विभूषिता, विविध सुगन्धादि से सुवासित देहवाली, हाथों में ताम्बूलादि लिए नायिकाओं द्वारा सुशोभिता और प्रति - नियत समस्त सिद्ध समूहों द्वारा वन्दिता, त्रिनेत्रा, सम्मोहन करनेवाली, पुष्पधनधारिणी, भग - लिंग - समाख्यातां एवं किन्नरियों के समान नृत्यपरायणा देवी के अमृतमय वचनों को सुनने के लिए उत्सुका सरस्वती और लक्ष्मी से युक्ता देवी कामाख्या समस्त गुणों से सम्पन्ना, असीम दयामयी एवं मंगलरुपिणी हैं ।
उक्त प्रकार ध्यान कर कामाख्या देवी का आह्वान करें । तब हे शिवप्रिये ! यथाशक्ति विधिपूर्वक उनकी पूजा करें । कुंकुम आदि लाल पुष्पों, सुगन्धित कुसुमों, जवा, यावक, सिन्दूर और विशेषकर करवीर पुष्पों से पूजन करें । हे देवेशि ! करवीर पुष्पों में कामाख्या देवी स्वयं निवास करती हैं । जवा और मालती आदि सुगान्धित पुष्पों को भी वैसा ही समझें । करवीर पुष्प की महिमा कहना संभव नहीं हैं । जवा पुष्प को देने से साधक गणपतिस्वरुप बन जाता है । 
अम्बिका की पूजा सदैव पंचतत्त्वों से करें । पंचतत्त्वों के बिना पूजा व्यर्थ होती है । पंचतत्त्वों के द्वारा देवी की प्रसन्नता क्षणभर में हो जाती हैं । हे महादेवी ! पंचमकारों से साधक शिव स्वरुप हो जाता है ।
कलियुग में पंचतत्त्वों के समान कुछ भी नहीं है । पंचतत्त्व परब्रह्म स्वरुप है और श्रेष्ठ गतिदायक हैं । हे महादेवी ! पंचतत्त्व स्वयं सदाशिव, ब्रह्मा और विष्णु स्वरुप हैं । पंचतत्त्वों से भोग और मोक्ष दोनों मिलने हैं, अतः उनका साधन ' महायोग ' कहा गया है । पंचतत्त्वों के बिना शाक्तों को सुखभोग और मोक्ष नहीं मिलता ।
हे देवेशि ! पंचतत्त्वों के प्रभाव से करोड़ो महापाप उसी प्रकार नष्ट हो जाते हैं, जिस प्रकार अग्नि रुई के ढेर को भस्म कर देती हैं । पंचतत्त्व जहाँ होते हैं, वहीं देवी निश्चय ही निवास करती हैं । पंचतत्त्व से रहित स्थान से जगदम्बिका दूर ही रहती हैं ।
' मद्य ' से स्वर्ग का आनन्द मिलता है, ' मांस ' से राज्य प्राप्त होता है, ' मत्स्य ' से भैरवी पुत्र की योग्यता मिलती है और ' मुद्रा ' से साधुता आती है । परम तत्त्व  ' पंचम ' से, हे महादेवी ! मनुष्य सायुज्य - मुक्ति को प्राप्त करता है । भक्तिपूर्वक देवी का अर्चन करे, तो यह सब लाभ होता है ।
स्वयम्भू - कुसुमों और कुण्ड - गोलोदभव शुभ - पुष्पों से, कुंकुम आदि से और आसव से देवी को ' अर्घ्य ' निवेदित करे । विविध उपहार, अन्नादि, खीर आदि नैवेद्यों से तथा वस्त्रों एवं आभूषणों आदि से देवी की पूजा कर आवरण - देवताओं का पूजन करें ।
वहीं इन्द्रादि दिकपालों और उनके अस्त्रों की पूजा कर हे शंकरि ! श्रेष्ठ साधक दोनों पार्श्वो में लक्ष्मी और सरस्वती की पूजा करें । हे देवी ! यन्त्र के मध्य में अन्नदा, धनदा, सुखदा, जयदा, रसदा, मोहदा, ऋद्धिया, वृद्धिदा, शुद्धिदा, भुक्तिदा, मुक्तिदा, मोक्षदा, सुखदा, ज्ञानदा, कान्तिदा - इन सोलह महादेवियों की सदा पूजा करें । साथ ही हे शिवे ! यत्नपूर्वक डाकिनी आदि सिद्धियों की उसी प्रकार पूजा करें ।
तब देवी के षडंगों की पूजा कर पुष्पांजलियाँ प्रदान करें और शुद्ध भाव से साधक यथाशक्ति मन्त्र का जप करें । जप समर्पित कर घण्टाघड़ियाल बजाकर पर - देवता को प्रसन्न करें और स्तोत्र, कवच का पाठ कर विधि पूर्वक प्रणाम करें ।
इसके बाद हदयस्थ देवी को ' शेषिका ' के प्रति उन्मुख कर ईशान कोण में त्रिकोण की कल्पना कर उस पर निर्माल्य छोड़े । साधकों के साथ भक्तिपूर्वक निर्माल्य ग्रहण कर अपनी शक्ति के साथ पंचतत्त्वों से विहार करें ।
शक्ति ही साधना और जपादि का मूल है । शक्ति ही जीवन का मूल और वही इहलोक एवं परलोक का मूल है । शक्ति ही तप का मूल है और हे प्रिये ! चारों वर्गों - धर्म, अर्थ, काम, मोक्ष का भी मूल है ।
जड़ और जंगम - सभी का मूल शक्ति है । हे देवी ! इस तथ्य को न समझकर पापी लोग निश्चित रुप से भयानक नरक में जाते हैं । इसलिए भगवान् शिव की आज्ञा के अनुसार साधक प्रयत्न करके शक्ति का जूठा द्रव्य पीते हैं अन्यथा रौरव नरक में जाते हैं ।
हे देवी ! शक्ति को जो कुछ दिया जाता है, वह देवता को ही अर्पित होता है । जिन उद्देश्यों से वह सब दिया जाता है, हे कुलेश्वरि ! वे सभी सफल होते हैं, यह सर्वथा सत्य है । शक्ति के बिना कलियुग में जो चक्रार्चन करता या करवाता है, वह घोर नरक में जाता है, उसके मोक्ष का उपाय नहीं है ।
हे प्रिय ! जिस - जिस कामना के लिए उक्त प्रकार जो देवी की पूजा करता है, वह उस - उस कामना को हस्तगत कर निश्चय ही विजय प्राप्त करता है । पुरश्चरणकाल में बुद्धिमान् साधक को एक लाख ' जप ' करना चाहिए और उसका दशांश ' हवन ' घृत, शर्करा, मधु - युक्त खीर द्वारा करना चाहिए । उसका दशांश ' तर्पण ' चन्दनयुक्त जल से करना चाहिए । उसका दशांश गन्धादि द्वारा ' अभिषेक ' करना चाहिए । ' अभिषेक ' का दशांश उत्तम द्विजों को मिष्ठानों द्वारा और देवी - भक्तों को पंचतत्त्वों द्वारा भोजन कराना चाहिए । इस प्रकार पुरश्चरण की क्रिया कर साधक सिद्ध हो जाता है । हे देवी ! तब वह प्रयोगों के करने में निश्चित रुप से सक्षम हो जाता है ।
हे कुलेश्वरि ! यह सारा पूजनादि कामाख्या को प्रसन्न करता है । ' त्रिकोण - यन्त्र ' में की गई पूजा से भगवती अत्याधिक प्रसन्न होती हैं । हे प्रिये ! उसमें आवाहनादि सभी कर्म कर उस पर विविध प्रकार के गन्धादि का लेप करें । इससे देवी को अत्यन्त प्रसन्नता होती है और साधक शीघ्र ही सिद्ध हो जाता है । मेरे ज्ञान में ' त्रिकोण ' पूजा के समान अन्य कोई पूजा नहीं हैं ।
श्लोक ५६ से ६६ तक के श्लोकों को अर्थ हिन्दी में व्याख्या करना उचित नहीं है । उसके अनुसार पूजन करने का अधिकार भी सबको नहीं है । जो चाहें, वे इसका भावार्थ अपने गुरुदेव से समझ सकते हैं । या इस पुस्तक के लेखक से सम्पर्क करके इस विषय में अधिक जानकारी ले सकते हैं ।  


 

कामाख्या स्तुति मन्त्रोद्धार : Kamakhya Stuti : Part 2

मन्त्रोद्धार 

॥ श्रीशिव - उवाच ॥
मन्त्रोद्धारं प्रवक्ष्यामि श्रृणु देवि ! परात् परम् ।
यजज्ञात्वया साधयेत् सिद्धि देवानामपि दुर्लभाम् ॥१॥
मन्त्रस्यास्य प्रतापेन मोहयेदखिलं जगत् ।
ब्रह्मादीन् मोहयेद् देवि ! बालकं जननी यथा ॥२॥
देव - दानव - गन्धर्व - किन्नरादीन् सुरेश्वरि !
मोहयेत् क्षण - मात्रेण प्रजासु नृपतिर्यथा ॥३॥
मन्त्रस्य पुरतो देवि ! राजानं सचिवादयः ।
अन्ये च मानवाः सर्वे मेषादि - जन्तवो यथा ॥४॥
मोहयेन्नगरं राज्ञः सहस्त्यश्वरथादिकम् ।
उर्वश्याद्यास्तु स्वर्वेश्या राज - पत्न्यादिकाः क्षणात् ॥५॥
स्तम्भनं मोहनं देवि ! क्षोभणं जृम्भणं तथा ।
द्रावणं भीषणं चैव विद्वेषोच्चाटने तथा ॥६॥
आकर्षणं च नारीणां विशेषेण महेश्वरि !
वशीकरणमन्यानि साधयेत् साधकोत्तमः ॥७॥
अग्निः स्तम्भति वायुश्च सूर्यो वारि - समूहकः ।
कटाक्षेणैव सर्वाणि साधकस्य न चान्यथा ! ॥९॥
जृम्भणान्तं त्यक्त - पाशं यात्रा - वारण - रोहकम् ।
वाम - कर्ण - युतं देवि ! नाद - बिन्दु - युतं पुनः ॥१०॥
एत्ततु त्रिगुणी - कृत्य कल्पवृक्ष - मनुं जपेत् ।
एकः वापि द्वयं वापि चतुर्थ वा जपेत् सुधीः ॥११॥
कामाख्या - साधनं कार्यं सर्व - विद्यासु साधकैः ।
अन्यथा सिद्धि - हानिः स्याद् विघ्नस्तेषां पदे - पदे ॥१२॥
किं शाक्ता वैष्णवाः किं वा शैवा गाणपत्यकाः ।
महा - मायाऽऽवृताः सरे तैल - यन्त्रे वृषा इव ॥१३॥
अस्याश्च साधनं देवि ! शाक्तानामेव सुन्दरि !
नात्र चक्रविशुद्धिस्तु कालादिशोधनं न च ॥१४॥
कृते च नरकं याति सर्वं तस्य विनश्यति ।
क्लेश - शून्यं परं देवि ! साधनं द्रुत - पोषकम् ॥१५॥

॥ इति श्रीकामाख्यातन्त्रे देवीश्वर - सम्वादे द्वितीयः पटलः ॥


Translation :

श्री शिव ने कहा - हे देवि ! मैं श्रेष्ठ से भी श्रेष्ठ ' मन्त्रोद्धार ' को कहूँगा, जिसे जानकर देवताओं को भी सिद्धि प्राप्त होती है । सुनो । दे देवि ! इसके प्रभाव से सारा जगत् मुग्ध हो जाता है । जिस प्रकार बालक को माता मोहित करती है या राजा जिस प्रकार प्रजा को वशीभूत कर लेता है, उसी प्रकार हे सुरेश्वरि ! देव, दानव, गन्धर्व, किन्नर आदि क्षण भर में वश में आ जाते हैं ।
इस मन्त्र के सामने, हे देवि ! राजा और मन्त्री आदि तथा अन्य सभी मनुष्य भेड़ आदि पशुओं के समान वशीभूत हो जाते हैं । हाथी, घोडे, रथ आदि के रहित सारी नगरी, राजा - रानी और उर्वशी आदि स्वर्ग की अप्सरायें भी इस मन्त्र के प्रभाव से क्षणभर में वशीभूत हो जाती हैं ॥
हे देवी, महेश्वरी ! श्रेष्ठ साधक इस मन्त्र से स्तम्भन, मोहन, क्षोभण, जृम्भण, द्रावण, त्रासन, विद्वेषण, उच्चाटन और विशेषकर स्त्रियों का आकर्षण तथा अन्य सबका वशीकरण करने में समर्थ होता है ।
कटाक्ष मात्र से साधक अग्नि, सूर्य, वायु और जल - राशि - सभी को स्तम्भित कर देता है, इसमें सन्देह नहीं । हे प्राणप्रिये ! इस मन्त्र का ज्ञाता कामदेव के समान जगत् को जीत लेता है । तीनों लोकों में उसके लिए कुछ भी असाध्य नहीं रहता ।
नाद - बिन्दु ( ँ  ) से युक्त ' जृम्भणान्त ' = ' त ', ' यात्रा - वाराण ' = ' र ', ' वाम - कर्ण ' = ' ई ' अर्थात् ' त्रीं ' - इस बीज को त्रिगुणीकृत करे - ' त्री त्रीं त्रीं । कल्पवृक्ष के समान इस मन्त्र का जप करें । बुद्धिमान् साधक एक, दो या चार बार इसका जप करें ।
सभी विद्याओं के साधकों को उक्त कामाख्या - मन्त्र की साधना करनी चाहिए, अन्यथा सिद्धि की हानि होती है और उनके पग - पग पर विघ्न होता है । शाक्त, वैष्णव, शैव और गाणपत्य - सभी देवताओं के उपासक महामाया द्वारा उसी प्रकार नियन्त्रित रहते है< जिस प्रकार तेली का बैल । अतः हे देवी ! उक्त मन्त्र की साधना शाक्तों के लिए आवश्यक हैं । इस मन्त्र की साधना में चक्रादि - शोधन या कालादि - शोधन की आवश्यकता नहीं है । जो इस मन्त्र के संबंध में शोधन - विचार करता है, उसका सबकुछ नष्ट हो जाता है और वह नरक में जाता है । हे देवी ! इस मन्त्र की साधना में किसी प्रकार का कष्ट नहीं होता इसके द्वारा शीघ्र ही सिद्धि प्राप्त होती है । 


  

कामाख्या स्तुति : Kamakhya Stuti : Part 1

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है.

॥ श्रीदेव्युवाच ॥
भगवन् , सर्व - धर्मज्ञ ! सर्व - विद्या - प्रिय, प्रभो !
सर्वदानन्द - हदय ! सर्वागम - प्रकाशक ॥१॥
श्रुतानि सर्व - तन्त्राणि साधनानि च भूरिशः,
विद्यास्ताः सकला देव ! फलानि त्वत् - प्रसादतः ॥२॥
सारात् सार - तरं तन्त्रं जानासि किं वद प्रभो !
अतीवेदं रहः स्थानं तेनाहं श्रवणोद्यता ॥३॥
॥ श्रीशिव उवाच ॥
श्रृणु देवि ! मुदा भद्रे ! मदीये प्राण - वल्लभे !
योनिरुपा महाविद्या कामाख्या वर - दायिनी ॥४॥
वरदाऽऽनन्ददा नित्या महाविभववर्द्धिनी ।
सर्वेषां जननी साऽपि सर्वेषां तारिणी मता ॥५॥
रमणी चैव सर्वेषां स्थूला सूक्ष्मा सदा शुभा,
तस्यास्तन्त्रं प्रवक्ष्यामि सावधानाऽवधारय ॥६॥
निखिलासु च विद्यासु ये सिध्यन्ति साधकाः ।
यत्र कुत्रापि केनाऽपि कामाख्या फलदायिनी ॥७॥
कामाख्या - विमुखा लोका निन्दिता भुवनत्रये ।
बिना कामात्मिकां काऽपि न दात्री सिद्धिसम्पदाम् ॥८॥
कामाख्या च सदा धर्मः कामाख्या चार्थ एव च ।
कामाख्या कामसम्पत्तिः कामाख्या मोक्ष एव च ॥९॥
निर्वाणं सैव देवेशि ! सैव सायुज्यमीरिता ।
सालोक्यं सह - रुपं च कामाख्या परमा गतिः ॥१०॥
शिवता ब्रह्मता देवि ! विष्णुता चन्द्रताऽपि च ।
देवत्वं सर्व - देवानां निश्चितं काम - रुपिणी ॥११॥
सर्वासामापि विद्यानां लौकिकं वाक्यमेव च ।
कामाख्याया महादेव्याः स्वरुपं सर्व हि ॥१२॥
पश्य पश्य प्रिये ! सर्व चिन्तयित्वा हदि स्वयं ।
कामाख्यां न विना किञ्चिद् विद्यते भुवन - त्रये ॥१३॥
लक्षकोटि महाविद्यास्तन्त्रादौ परिकीर्तिताः ।
सारात् सारतमा देवि ! सर्वेषां षोडशी मता ॥१४॥
तस्याश्च कारणं देवि ! कामाख्या जगदम्बिका ।
चन्द्र - कीन्तिर्यथा देवि ! जायते लीयते पुनः ॥१५॥
स्थावराणि चराणीह नित्याऽनित्यानि यानि च ।
सत्यं पुनः सत्यं विना तां नैव जायते ॥१६॥

॥ इति श्रीकामाख्या तन्त्रे देवीश्वर सम्वादे प्रथमः पटलः ॥




Translation :

योनिरुपा कामाख्या देवी का स्वरुप

श्रीदेवी ने कहा - हे भगवन् ! हे प्रभो ! आप सभी धर्मो के ज्ञाता, सभी विद्याओं के स्वामी, सभी आगमों के प्रकाशक और सदैव आनन्दमय हदयवाले हैं । देव ! मैंने सुना है कि आपकी ही कृपा से समस्त तन्त्रों, सभी प्रकार की साधनाओं और सब प्रकार की विद्याओं की उपासना का फल मिलता है । हे प्रभो ! श्रेष्ठ से भी श्रेष्ठ जो तंत्र आपको ज्ञात हो और अत्यंत श्रेष्ठ ब्रह्म प्रतिपादक जो अपौरुषेय ज्ञान आज भी गुप्त हो, उसे सुनने की मेरी इच्छा है ।
श्री शिव बोले - हे प्राणवल्लभे ! प्रश्न का उत्तर देता हूँ, सुनो ! वरदयिनी महामाया कामाख्या योनिरुपा हैं, वे नित्या हैं, वर और आनन्ददात्री हैं तथा महान ऐश्वर्य को बढ़ानेवाली हैं । वे सबकी जननी और रक्षाकारिणी हैं । वे सदैव स्थूल और सूक्ष्म सभी को मूलभूता, शक्तिस्वरुपा, कल्याणकारिणी हैं । मैं उन्हीं महाविद्या, विराट स्वरुपा ' कामाख्या ' का तन्त्र बताता हूँ । अत्यन्त सावधान चित्त से सुनो ।
सारे विश्व में जितने प्रकार की विद्याओं की साधना द्वारा साधक लोग जिन विविध सिद्धियों को प्राप्त करते हैं, उन सभी के क्षेत्र में एकमात्र ' कामाख्या ' ही वरदायिनी अर्थात् अभीष्ट फलदात्री हैं । साधकों के लिए ' कामाख्या ' सर्वविद्यास्वरुपिणी और सर्वासिद्धिदायिनी हैं । जो मनुष्य ' कामाख्या ' सर्वविद्यास्वरुपिणी और सर्वसिद्धिदायिनी हैं । जो मनुष्य ' कामाख्या ' के प्रति उदासीन रहता है, वह तीनों लोकों में निन्दित होता है । एकमात्र कामात्मिका महामाया ' कामाख्या ' को छोड़कर अन्य कोई भी सिद्धिरुपी सम्पदा देने में सक्षम नहीं है ।
' कामाख्या ' सदैव धर्म और अर्थ - स्वरुपा हैं । ' कामाख्या ' काम और मोक्षस्वरुपा हैं । ' कामाख्या ' ही निर्वाण मुक्ति और ' कामाख्या ' ही सायुज्य मुक्ति कही गई हैं । ' कामाख्या ' ही सालोक्य और सारुप्य मुक्तिस्वरुपा हैं । ' कामाख्या ' ही श्रेष्ठ गति हैं ।
हे देवि ! ब्रह्मत्व, विष्णुत्व, शिवत्व, चन्द्रत्व या समस्त देवताओं का देवत्व जिस शक्ति में निहित है, वही काम - रुपिणी ' कामाख्या ' हैं । सभी विद्याओं का जो कुछ लौकिक वाक्य है, वही ' कामाख्या ' हैं । सभी विद्याओं का जो कुछ लौकिक वाक्य है, वही ' कामाख्या ' हैं । सभी विद्याओं का जो कुछ लौकिक वाक्य है, वही ' कामाख्या ' हैं ।
महाविद्यारुपिणी सभी महादेवियाँ ' कामाख्या ' के ही स्वरुप हैं । हे प्रिय ! अपने हदय में उन सबका ध्यान कर स्वयं देख लो । तीनों लोकों में ' कामाख्या ' के अतिरिक्त अन्य कोई नही हैं । तन्त्रादि में लाखो - करोड़ो महाविद्यालयें वर्णित हैं । हे देवी ! इन सबमें सबसे श्रेष्ठ षोडशी ही मानी गई हैं । हे देवि ! उनकी मूल कारण जगदम्बा ' कामाख्या ' ही हैं । हे देवि ! जिस प्रकार चन्द्रमा की कान्ति प्रकट होती है, फिर लुप्त हो जाती है और पुनः प्रकट होती है, उसी प्रकार स्थावर और जंगम् तथा नित्य और अनित्य - जो कुछ भी है, वह सब ' कामाख्या ' के बिना उत्पन्न नहीं होता, वह सर्वथा सत्य है । 


Monday, January 3, 2011

कृष्ण मन्त्र--Krsna Mantra

कृष्ण मन्त्र--

जिनके इष्ट श्री कृष्ण हैं उनके लिए तथा गृहस्त व्यक्तियों के लिए यह मन्त्र उपयोगी एवं लाभदायक है!

विनियोग---
अस्य मंत्रस्य नारद ऋषि:, गायत्री छंद:, श्री कृष्णो देवता, क्लीं बीजम, स्वाहा शक्ति:, चतुर्विध पुरुषार्थ सिद्धयथे जपे विनियोग:!

ध्यान------
स्मरेद वृक्ष वने रम्ये मोहयंतमनारतम:!
गोविन्दं पुण्डरीकाक्षं गोपकन्या सहस्त्रश:!!
आत्मनो वदनां भोज प्रेणिताक्षिमधुव्रता:!
पीडिता: कामबाणेना विरामा श्लेषेत्सुका:!!

कृष्ण मन्त्र----
"क्लीं कृष्णाय गोविन्दाय गोपीजन वल्लभाय स्वाहा!"

"Klīm kr̥isnāya gōvindāya gōpījana vallabhāya svāhā"


जीवन में पूर्ण सुख भोग प्राप्त कर अंत में कृष्ण चरणों में लीं हो जा..